|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.135. अध्यायः 135
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति श्राद्धे तिलमांसविशेषदानस्य फलविशेषकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वरः।
किंस्विद्वहुफलं प्रोक्तं किमानन्त्याय कल्पते॥ 13-135-1(86651)
भीष्म उवाच। 13-135-2x(7186)
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः।
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर॥ 13-135-2(86652)
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप॥ 13-135-3(86653)
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत्।
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः॥ 13-135-4(86654)
द्वौ मासौ तु भवेत्तुप्तिर्मत्स्यैः तितृगणस्य ह।
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह॥ 13-135-5(86655)
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप।
वाराहेण तु षण्मासान्सप्त वै शाकुलेन तु॥ 13-135-6(86656)
मासानष्टौ पार्षतेन रौरवेण नव प्रभो।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी॥ 13-135-7(86657)
मांसेनेकादश प्रीतिः पितॄणां माहिषेण तु।
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते॥ 13-135-8(86658)
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी॥ 13-135-9(86659)
आन्त्याय भवेद्दतं खङ्गमांसं पितृक्षते।
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते॥ 13-135-10(86660)
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर।
सनत्कुमारो भगवान्पुरा मध्यभ्यभाषत॥ 13-135-11(86661)
अपि नः स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम्।
मघासु सर्पिःसंयुक्तं पायसं दक्षिणायने॥ 13-135-12(86662)
आजेन वाऽपि लौहेन मघास्वेव यतव्रतः।
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम्॥ 13-135-13(86663)
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्।
यत्रासौ प्रथितो लोकेष्वक्ष्यकरणो वटः॥ 13-135-14(86664)
आपो मूलं फलं मांसमन्नं वाऽपि पितृक्षये।
यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते॥ ॥ 13-135-15(86665)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-135-7 पृषतश्चित्रमृगस्तदीयं पार्षतम्। रुरुः कृष्णमृगस्तदीयं रौरवम्॥ 7-135-9 वाध्रीणसः वध्र्या स्यूतनासिको महोक्षः। पक्षिविशेषोऽजविशेषश्चेत्यन्ये॥ 7-135-10 पितृक्षते मृततिथौ। लौहं काञ्चनवृक्षजं पुष्पादिशाकम्॥ 7-135-13 वीजितं पायसादिकं दद्यादिति पूर्वेणान्वयः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|